|| श्री सीतारामाष्टकम् ||
ब्रह्ममहेन्द्रसुरेन्द्रमरुद्गणरुद्रमुनीन्द्रगणैरतिरम्यं,
क्षीरसरित्पतितीरमुपेत्य नुतं हि सतामवितारमुदारम् ।
भूमिभरप्रशमार्थमथ प्रथितप्रकटीकृतचिद्घनमूर्तिं,
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ १ ॥
पद्मदलायतलोचन हे रघुवंशविभूषण देव दयालो,
निर्मलनीरदनीलतनोऽखिललोकहृदम्बुजभासक भानो ।
कोमलगात्र पवित्रपदाब्जरजःकणपावितगौतमकान्त,
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ २ ॥
पूर्ण परात्पर पालय मामतिदीनमनाथमनन्तसुखाब्धे,
प्रावृडदभ्रतडित्सुमनोहरपीतवराम्बर राम नमस्ते ।
कामविभञ्जन कान्ततरानन काञ्चनभूषण रत्नकिरीट,
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ ३ ॥
दिव्यशरच्छशिकान्तिहरोज्ज्वलमौक्तिकमालविशालसुमौले,
कोटिरविप्रभ चारुचरित्रपवित्र विचित्रधनुःशरपाणे ।
चण्डमहाभुजदण्डविखण्डितराक्षसराजमहागजदण्डं,
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ ४ ॥
दोषविहिंस्रभुजङ्गसहस्रसुरोषमहानलकीलकलापे,
जन्मजरामरणोर्मिभये मदमन्मथनक्रविचक्रभवाब्धौ ।
दुःखनिधौ च चिरं पतितं कृपयाद्य समुद्धर राम ततो माम्,
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ ५ ॥
संसृतिघोरमदोत्कटकुञ्जर तृट्क्षुदनीरदपिण्डिततुण्डं,
दण्डकरोन्मथितं च रजस्तमउन्मदमोहपदोज्झितमार्तम् ।
दीनमनन्यगतिं कृपणं शरणागतमाशु विमोचय मूढम्,
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ ६ ॥
जन्मशतार्जितपापसमन्वितहृत्कमले पतिते पशुकल्पे,
हे रघुवीर महारणधीर दयां कुरु मय्यतिमन्दमनीषे ।
त्वं जननी भगिनी च पिता मम तावदसि त्ववितापि कृपालो,
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ ७ ॥
त्वां तु दयालुमकिञ्चनवत्सलमुत्पलहारमपारमुदारं,
राम विहाय कमन्यमनामयमीश जनं शरणं ननु यायाम् ।
त्वत्पदपद्ममतः श्रितमेव मुदा खलु देव सदैव ससीत,
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ ८ ॥
यः करुणामृतसिन्धुरनाथजनोत्तमबन्धुरजोत्तमकारी,
भक्तभयोर्मिभवाब्धितरिः सरयूतटिनीतटचारुविहारी ।
तस्य रघुप्रवरस्य निरन्तरमष्टकमेतदनिष्टहरं वै,
यस्तु पठेदमरः स नरो लभतेऽच्युतरामपदाम्बुजदास्यम् ॥ ९ ॥
|| श्री रामचंद्र अष्टकम ||
चिदाकारो धाता परमसुखदः पावनतनु,
र्मुनीन्द्रैर्योगीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता ।
सदा सेव्यः पूर्णो जनकतनयाङ्गः सुरगुरुः,
रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ १ ॥
मुकुन्दो गोविन्दो जनकतनयालालितपदः,
पदं प्राप्ता यस्याधमकुलभवा चापि शबरी ।
गिरातीतोऽगम्यो विमलधिषणैर्वेदवचसा,
रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ २ ॥
धराधीशोऽधीशः सुरनरवराणां रघुपतिः,
किरीटी केयूरी कनककपिशः शोभितवपुः ।
समासीनः पीठे रविशतनिभे शान्तमनसो,
रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ३ ॥
वरेण्यः शारण्यः कपिपतिसखश्चान्तविधुरो,
ललाटे काश्मीरो रुचिरगतिभङ्गः शशिमुखः ।
नराकारो रामो यतिपतिनुतः संसृतिहरो,
रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ४ ॥
विरूपाक्षः काश्यामुपदिशति यन्नाम शिवदं,
सहस्रं यन्नाम्नां पठति गिरिजा प्रत्युषसि वै ।
स्वलोकेगायान्तीश्वरविधिमुखा यस्य चरितं,
रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ५ ॥
परो धीरोऽधीरोऽसुरकुलभवश्चासुरहरः,
परात्मा सर्वज्ञो नरसुरगणैर्गीतसुयशाः ।
अहल्याशापघ्नः शरकर ऋजुः कौशिकसखो,
रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ६ ॥
हृषीकेशः शौरिर्धरणिधरशायी मधुरिपु,
रुपेन्द्रो वैकुण्ठो गजरिपुहरस्तुष्टमनसा ।
बलिध्वंसी वीरो दशरथसुतो नीतिनिपुणो,
रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ७ ॥
कविः सौमित्रीड्यः कपटमृगधावी वनचरो,
रणश्लाघी दान्तो धरणिभरहर्ता सुरनुतः ।
अमानी मानज्ञो निखिलजनपूज्यो हृदिशयो,
रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ८ ॥
इदं रामस्तोत्रं वरममरदासेन रचित,
मुषःकाले भक्त्या यदि पठति यो भावसहितम् ।
मनुष्यः स क्षिप्रं जनिमृतिभयं तापजनकं,
परित्यज्य श्रेष्ठं रघुपतिपदं याति विशदम् ॥ ९ ॥