|| श्री रामाष्टकम् ||

कृतार्तदेववन्दनं दिनेशवंशनन्दनम् ।।
सुशोभिभालचन्दनं नमामि राममीश्वरम् ॥ १ ॥।
मुनीन्द्रयज्ञकारकं शिलाविपत्तिहारकम् ।।
महाधनुर्विदारकं नमामि राममीश्वरम् ॥ २ ॥।
स्वतातवाक्यकारिणं तपोवने विहारिणम् ।।
करे सुचापधारिणं नमामि राममीश्वरम् ॥ ३ ॥।
कुरङ्गमुक्तसायकं जटायुमोक्षदायकम् ।।
प्रविद्धकीशनायकं नमामि राममीश्वरम् ॥ ४ ॥।
प्लवङ्गसङ्गसम्मतिं निबद्धनिम्नगापतिम् ।।
दशास्यवंशसङ्क्षतिं नमामि राममीश्वरम् ॥ ५ ॥।
विदीनदेवहर्षणं कपीप्सितार्थवर्षणम् ।।
स्वबन्धुशोककर्षणं नमामि राममीश्वरम् ॥ ६ ॥।
गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणम् ।।
कृतास्तमोहलक्षणं नमामि राममीश्वरम् ॥ ७ ॥।
हृताखिलाचलाभरं स्वधामनीतनागरम् ।।
जगत्तमोदिवाकरं नमामि राममीश्वरम् ॥ ८ ॥।
इदं समाहितात्मना नरो रघूत्तमाष्टकम् ।।
पठन्निरन्तरं भयं भवोद्भवं न विन्दते ॥ ९ ॥

|| श्री शिव कृत रामाष्टकम् ||

॥ अथ रामाष्टकम् ॥
श्रीशिव उवाच ।
सुग्रीवमित्रं परमं पवित्रं सीताकलत्रं नवमेघगात्रम् ।
कारुण्यपात्रं शतपत्रनेत्रं श्रीरामचन्द्रं सततं नमामि ॥१॥
संसारसारं निगमप्रचारं धर्मावतारं हृतभूमिभारम् ।
सदाविकारं सुखसिन्धुसारं श्रीरामचद्रं सततं नमामि ॥२॥
लक्ष्मीविलासं जगतां निवासं लङ्काविनाशं भुवनप्रकाशम् ।
भूदेववासं शरदिन्दुहासं श्रीरामचन्द्रं सततं नमामि ॥३॥
मन्दारमालं वचने रसालं गुणैर्विशालं हतसप्ततालम् ।
क्रव्यादकालं सुरलोकपालं श्रीरामचन्द्रं सततं नमामि ॥४॥
वेदान्तगानं सकलैः समानं हृतारिमानं त्रिदशप्रधानम् ।
गजेन्द्रयानं विगतावसानं श्रीरामचन्द्रं सततं नमामि ॥५॥
श्यामाभिरामं नयनाभिरामं गुणाभिरामं वचनाभिरामम् ।
विश्वप्रणामं कृतभक्तकामं श्रीरामचन्द्रं सततं नमामि ॥६॥
लीलाशरीरं रणरङ्गधीरं विश्वैकसारं रघुवंशहारम् ।
गम्भीरनादं जितसर्ववादं श्रीरामचन्द्रं सततं नमामि ॥७॥
खले कृतान्तं स्वजने विनीतं सामोपगीतं मनसा प्रतीतम् ।
रागेण गीतं वचनादतीतं श्रीरामचन्द्रं सततं नमामि ॥८॥
श्रीरामचन्द्रस्य वराष्टकं त्वां मयेरितं देवि मनोहरं ये ।
पठन्ति शृण्वन्ति गृणन्ति भक्त्या ते स्वीयकामान् प्रलभन्ति नित्यम् ॥९॥
इति शतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मीकीये सारकाण्डे युद्धचरिते द्वादशसर्गान्तर्गतं श्रीरामाष्टकं समाप्तम् ॥