|| श्रीराम प्रेमाष्ट्कम ||

श्यामाम्बुदाभमरविन्दविशालनेत्रं बन्धूकपुष्पसदृशाधरपाणिपादम् ।
सीतासहायमुदितं धृतचापबाणं रामं नमामि शिरसा रमणीयवेषम् ॥ १ ॥
पटुजलधरधीरध्वानमादाय चापं पवनदमनमेकं बाणमाकृष्य तूणात् ।
अभयवचनदायी सानुजः सर्वतो मे रणहतदनुजेन्द्रो रामचन्द्रः सहायः ॥ २ ॥
दशरथकुलदीपोऽमेयबाहुप्रतापो दशवदनसकोपः क्षालिताशेषपापः ।
कृतसुररिपुतापो नन्दितानेकभूपो विगततिमिरपङ्को रामचन्द्रः सहायः ॥ ३ ॥
कुवलयदलनीलः कामितार्थप्रदो मे कृतमुनिजनरक्षो रक्षसामेकहन्ता ।
अपहृतदुरितोऽसौ नाममात्रेण पुंसा-मखिलसुरनृपेन्द्रो रामचन्द्रः सहायः ॥ ४ ॥
असुरकुलकृशानुर्मानसाम्भोजभानुः सुरनरनिकराणामग्रणीर्मे रघूणाम् ।
अगणितगुणसीमा नीलमेघौघधामा शमदमितमुनीन्द्रो रामचन्द्रः सहायः ॥ ५ ॥
कुशिकतनययागं रक्षिता लक्ष्मणाढ्यः पवनशरनिकायक्षिप्तमारीचमायः ।
विदलितहरचापो मेदिनीनन्दनाया नयनकुमुदचन्द्रो रामचन्द्रः सहायः ॥ ६ ॥
पवनतनयहस्तन्यस्तपादाम्बुजात्मा कलशभववचोभिः प्राप्तमाहेन्द्रधन्वा ।
अपरिमितशरौघैः पूर्णतूणीरधीरो लघुनिहतकपीन्द्रो रामचन्द्रः सहायः ॥ ७ ॥
कनकविमलकान्त्या सीतयालिङ्गिताङ्गो मुनिमनुजवरेण्यः सर्ववागीशवन्द्यः ।
स्वजननिकरबन्धुर्लीलया बद्धसेतुः सुरमनुजकपीन्द्रो रामचन्द्रः सहायः ॥ ८ ॥
यामुनाचार्यकृतं दिव्यं रामाष्टकमिदं शुभम् ।
यः पठेत् प्रयतो भूत्वा स श्रीरामान्तिकं व्रजेत् ॥ ९ ॥

|| श्री राम मंगलाष्टक ||

अथ श्रीराममङ्गलाष्टकम् ।
सङ्गीतप्राणमूलाय सप्तस्वराधिवासिने ।
षड्जाधारश्रुतिस्थाय सद्गुरुस्वाय मङ्गलम् ॥ १॥
ऋषभारूढनूताय रिपुसूदनकीर्तये ।
ऋषिश्रेष्ठसुगीताय रिपुभीमाय मङ्गलम् ॥ २॥
गङ्गापावनपादाय गम्भीरस्वरभाषिणे ।
गान्धर्वगानलोलाय गभीराय सुमङ्गलम् ॥ ३॥
मङ्गलं क्षितिजापाय मङ्गलानन्दमूर्तये ।
मङ्गलश्रीनिवासाय माधवाय सुमङ्गलम् ॥ ४॥
पञ्चमस्वरगेयाय परिपूर्णस्वराब्धये ।
पाथोधिरागरङ्गाय परार्थाय सुमङ्गलम् ॥ ५॥
धन्याय धर्मपालाय धैवत्यधैर्यदायिने ।
ध्याताय ध्यानगम्याय ध्यातरूपाय मङ्गलम् ॥ ६॥
निषादगुहमित्राय निशाचरमदारये ।
निर्वाणफलदात्रे च नित्यानन्दाय मङ्गलम् ॥ ७॥
सप्तस्वराधिनाथाय सङ्गीतकृतिसेविने ।
सद्गुरुस्वामिगेयाय सीतारामाय मङ्गलम् ॥ ८॥